२६ नवम्बर•कृष्णपक्षः द्वितीया
सरस्वती माता

श्रीसरस्वतीद्वादशनामस्तोत्रम्

स्तोत्रम्सरस्वती माता5 पदानि
115%
विभजत

सरस्वतीमहं वन्दे

वीणापुस्तकधारिणीम्।

हंसवाहसमायुक्तां

विद्यादानकरीं मम॥1॥

प्रथमं भारती नाम

द्वितीयं च सरस्वती।

तृतीयं शारदा देवी

चतुर्थं हंसवाहिनी॥2॥

पश्चमं जगति ख्याता

षष्ठं वाणीश्वरी तथा।

कौमारी सप्तमं प्रोक्ता

अष्टमं ब्रह्मचारिणी॥3॥

नवमं बुद्धिदात्री च दशमं वरदायिनी।

एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी॥4॥

ब्राह्मी द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः।

सर्वसिद्धिकरी तस्य प्रसन्ना परमेश्वरी।

सा मे वसतु जिह्वाग्रे ब्रह्मरूपा सरस्वती॥5॥

अपरे स्तोत्रम्