२६ नवम्बर•कृष्णपक्षः द्वितीया
भगवान गणेश

श्री सङ्कटनाशन गणेश स्तोत्रम्

स्तोत्रम्भगवान गणेश8 पदानि
115%
विभजत

प्रणम्य शिरसा देवं

गौरीपुत्रं विनायकम्।

भक्तावासं स्मेरनित्यमाय्ः

कामार्थसिद्धये॥1॥

प्रथमं वक्रतुण्डं च

एकदन्तं द्वितीयकम्।

तृतीयं कृष्णपिङ्गाक्षं

गजवक्त्रं चतुर्थकम्॥2॥

लम्बोदरं पञ्चमं च

षष्ठं विकटमेव च।

सप्तमं विघ्नराजं च

धूम्रवर्णं तथाष्टकम्॥3॥

नवमं भालचन्द्रं च

दशमं तु विनायकम।

एकादशं गणपतिं

द्वादशं तु गजाननम॥4॥

द्वादशैतानि नामानि

त्रिसन्ध्यं यः पठेन्नरः।

न च विघ्नभयं तस्य

सर्वासिद्धिकरं प्रभो॥5॥

विद्यार्थी लभते विद्यां

धनार्थी लभते धनम्।

पुत्रार्थी लभते

पुत्रान्मोक्षार्थी लभते गतिम्॥6॥

जपेद्गणपतिस्तोत्रं

षड्भिर्मासैः फलं लभेत्।

संवत्सरेण सिद्धिं च

लभते नात्र संशयः॥7॥

अष्टभ्यो ब्राह्मणेभ्यश्च

लिखित्वां यः समर्पयेत्।

तस्य विद्या भवेत्सर्वा

गणेशस्य प्रसादतः॥8॥

अपरे स्तोत्रम्