२६ नवंबर•कृष्ण पक्ष द्वितीया
भगवान शिव

निर्वाणषट्कम्

षट्कम्भगवान शिव6 पदरचयिता:Adi Shankaracharya
115%
शेयर करें

मनोबुद्ध्यहङ्कारचित्तानि नाहं

न च श्रोत्रजिह्वे न च घ्राणनेत्रे।

न च व्योमभूमिर्न तेजो न

वायुश्चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥1॥

न च प्राणसंज्ञो न वै पञ्चवायुर्न

वा सप्तधातुर्न वा पञ्चकोषाः।

न वाक्पाणिपादं न चोपस्थपायू

चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥2॥

न मे द्वेषरागौ न मे लोभमोहौ

मदो नैव मे नैव मात्सर्यभावः।

न धर्मो न चार्थो न कामो न

मोक्षश्चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥3॥

न पुण्यं न पापं न सौख्यं न दुःखं

न मन्त्रो न तीर्थं न वेदा न यज्ञाः।

अहं भोजनं नैव भोज्यं न भोक्ता

चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥4॥

न मृत्युर्न शङ्का न मे जातिभेदः

पिता नैव मे नैव माता न जन्म।

न बन्धुर्न मित्रं गुरुर्नैव

शिष्यश्चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥5॥

अहं निर्विकल्पो निराकाररूपो

विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्।

न चासङ्गतं नैव मुक्तिर्न

मेयश्चिदानन्दरूपः शिवोऽहं शिवोऽहम्॥6॥