२६ नोव्हेंबर•कृष्ण पक्ष द्वितीया

काली अष्टोत्तर शतनाम स्तोत्रम्

देवता नामावलीदेवी काली25 कडवी
115%
शेअर करा

॥ अथ श्रीकालीअष्टोत्तरशतनामस्तोत्रम् ॥

॥ ध्यानम् ॥

ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः

शङ्खं संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम्।

नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां

यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम्॥

॥ स्तोत्रम् ॥

भैरव उवाच।

शतनाम प्रवक्ष्यामि कालिकाया वरानने।

यस्य प्रपठनाद्वाग्मी सर्वत्र विजयी भवेत्॥1॥

ॐ काली कपालिनी कान्ता कामदा कामसुन्दरी।

कालरात्रिः कालिका च कालभैरवपूजिता॥2॥

कुरुकुल्ला कामिनी च कमनीयस्वभाविनी।

कुलीना कुलकर्त्री च कुलवर्त्मप्रकाशिनी॥3॥

कस्तूरीरसनीला च काम्या कामस्वरूपिणी।

ककारवर्णनिलया कामधेनुः करालिका॥4॥

कुलकान्ता करालास्या कामार्ता च कलावती।

कृशोदरी च कामाख्या कौमारी कुलपालिनी॥5॥

कुलजा कुलकन्या च कलहा कुलपूजिता।

कामेश्वरी कामकान्ता कुञ्जरेश्वरगामिनी॥6॥

कामदात्री कामहर्त्री कृष्णा चैव कपर्दिनी।

कुमुदा कृष्णदेहा च कालिन्दी कुलपूजिता॥7॥

काश्यपी कृष्णमाता च कुलिशाङ्गी कला तथा।

क्रींरूपा कुलगम्या च कमला कृष्णपूजिता॥8॥

कृशाङ्गी किन्नरी कर्त्री कलकण्ठी च कार्तिकी।

कम्बुकण्ठी कौलिनी च कुमुदा कामजीविनी॥9॥

कुलस्त्री कीर्त्तिका कृत्या कीर्तिश्च कुलपालिका।

कामदेवकला कल्पलता कामाङ्गवर्धिनी॥10॥

कुन्ता च कुमुदप्रीता कदम्बकुसुमोत्सुका।

कादम्बिनी कमलिनी कृष्णानन्दप्रदायिनी॥11॥

कुमारीपूजनरता कुमारीगणशोभिता।

कुमारीरञ्जनरता कुमारीव्रतधारिणी॥12॥

कङ्काली कमनीया च कामशास्त्रविशारदा।

कपालखट्वाङ्गधरा कालभैरवरूपिणी॥13॥

कोटरी कोटराक्षी च काशी कैलासवासिनी।

कात्यायनी कार्यकरी काव्यशास्त्रप्रमोदिनी॥14॥

कामाकर्षणरूपा च कामपीठनिवासिनी।

कङ्गिनी काकिनी क्रीडा कुत्सिता कलहप्रिया॥15॥

कुण्डगोलोद्भवप्राणा कौशिकी कीर्तिवर्धिनी।

कुम्भस्तनी कटाक्षा च काव्या कोकनदप्रिया॥16॥

कान्तारवासिनी कान्तिः कठिना कृष्णवल्लभा।

इति ते कथितं देवि गुह्याद् गुह्यतरं परम्॥17॥

प्रपठेद्य इदं नित्यं कालीनामशताष्टकम्।

त्रिषु लोकेषु देवेशि तस्यासाध्यं न विद्यते॥18॥

प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि।

यः पठेत्परया भक्त्या कालीनामशताष्टकम्॥19॥

कालिका तस्य गेहे च संस्थानं कुरुते सदा।

शून्यागारे श्मशाने वा प्रान्तरे जलमध्यतः॥20॥

वह्निमध्ये च संग्रामे तथा प्राणस्य संशये।

शताष्टकं जपन्मन्त्री लभते क्षेममुत्तमम्॥21॥

कालीं संस्थाप्य विधिवत्स्तुत्वा नामशताष्टकैः।

साधकः सिद्धिमाप्नोति कालिकायाः प्रसादतः॥22॥

॥ इति शाक्तप्रमोदे श्रीकाल्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

आणखी देवता नामावली