# विन्ध्येश्वरी माता स्तोत्रम् – गीतम्

> विन्ध्येश्वरी माता स्तोत्रम्: विन्ध्येश्वरी मातासमर्पितम्, “निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डिनीम्” इत्यारभ्य। सम्पूर्णं पाठ्यं स्वभाषायां पठत।

Source: https://www.hinducalendar.today/sa/lyrics/stotram/vindhyeshwari-mata/vindhyeshwari-mata-stotram

115%

[विभजत](https://wa.me/?text=%E0%A4%B5%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A5%80%20%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A4%BE%20%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fsa%2Flyrics%2Fstotram%2Fvindhyeshwari-mata%2Fvindhyeshwari-mata-stotram)

ॐ

१

निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डिनीम्।

वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम्॥1॥

२

त्रिशूलरत्नधारिणीं धराविघातहारिणीम्।

गृहे गृहे निवासिनीं भजामि विन्ध्यवासिनीम्॥2॥

३

दरिद्रदुःखहारिणीं सतां विभूतिकारिणीम्।

वियोगशोकहारिणीं भजामि विन्ध्यवासिनीम्॥3॥

४

लसत्सुलोललोचनां लतां सदावरप्रदाम्।

कपालशूलधारिणीं भजामि विन्ध्यवासिनीम्॥4॥

५

करे मुदा गदाधरां शिवां शिवप्रदायिनीम्।

वरावराननां शुभां भजामि विन्ध्यवासिनीम्॥5॥

६

ऋषीन्द्रजामिनप्रदां त्रिधास्यरूपधारिणीम्।

जले स्थले निवासिनीं भजामि विन्ध्यवासिनीम्॥6॥

७

विशिष्टसृष्टिकारिणीं विशालरूपधारिणीम्।

महोदरां विशालिनीं भजामि विन्ध्यवासिनीम्॥7॥

८

पुरन्दरादिसेवितां मुरादिवंशखण्डिनीम्।

विशुद्धबुद्धिकारिणीं भजामि विन्ध्यवासिनीम्॥8॥
