# ऋणमोचन मङ्गल स्तोत्र – गीतम्

> ऋणमोचन मङ्गल स्तोत्र: मंगल देवसमर्पितम्, “मङ्गलो भूमिपुत्रश्च” इत्यारभ्य। सम्पूर्णं पाठ्यं स्वभाषायां पठत।

Source: https://www.hinducalendar.today/sa/lyrics/stotram/mangal-stotram/rinmochan-mangal-stotram

115%

[विभजत](https://wa.me/?text=%E0%A4%8B%E0%A4%A3%E0%A4%AE%E0%A5%8B%E0%A4%9A%E0%A4%A8%20%E0%A4%AE%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B2%20%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fsa%2Flyrics%2Fstotram%2Fmangal-stotram%2Frinmochan-mangal-stotram)

ॐ

१

मङ्गलो भूमिपुत्रश्च

ऋणहर्ता धनप्रदः।

स्थिरासनो महाकायः

सर्वकामविरोधकः॥1॥

२

लोहितो लोहिताक्षश्च

सामगानां कृपाकरः।

धरात्मजः कुजो भौमो

भूतिदो भूमिनन्दनः॥2॥

३

अङ्गारको यमश्चैव

सर्वरोगापहारकः।

वृष्टेः कर्ताऽपहर्ता च

सर्वकामफलप्रदः॥3॥

४

एतानि कुजनामानि

नित्यं यः श्रद्धया पठेत्।

ऋणं न जायते तस्य

धनं शीघ्रमवाप्नुयात्॥4॥

५

धरणीगर्भसम्भूतं

विद्युत्कान्तिसमप्रभम्।

कुमारं शक्तिहस्तं च

मङ्गलं प्रणमाम्यहम्॥5॥

६

स्तोत्रमङ्गारकस्यैतत्

पठनीयं सदा नृभिः।

न तेषां भौमजा पीडा

स्वल्पापि भवति क्वचित्॥6॥

७

अङ्गारक महाभाग

भगवन् भक्तवत्सल।

त्वां नमामि ममाशेष

मृणमाशु विनाशयः॥7॥

८

ऋणरोगादिदारिद्रयं

ये चान्ये चापमृत्यवः।

भयक्लेशमनस्तापा

नश्यन्तु मम सर्वदा॥8॥

९

अतिवक्रदुरारा

भोगमुक्तजितात्मनः।

तुष्टो ददासि साम्राज्यं

रुष्टो हरसि तत्क्षणात्॥9॥

१०

विरञ्चि शक्रविष्णूनां

मनुष्याणां तु का कथा।

तेन त्वं सर्वसत्वेन

ग्रहराजो महाबलः॥10॥

११

पुत्रान्देहि धनं देहि

त्वामस्मि शरणं गतः।

ऋणदारिद्रयदुःखेन

शत्रुणां च भयात्ततः॥11॥

१२

एभिर्द्वादशभिः श्लोकैर्यः

स्तौति च धरासुतम्।

महतीं श्रियमाप्नोति

ह्यपरो धनदो युवा॥12॥
