# ऋणमुक्ति श्री गणेश स्तोत्रम् – गीतम्

> ऋणमुक्ति श्री गणेश स्तोत्रम्: भगवान गणेशसमर्पितम्, “ॐ अस्य श्रीऋणविमोचन” इत्यारभ्य। सम्पूर्णं पाठ्यं स्वभाषायां पठत।

Source: https://www.hinducalendar.today/sa/lyrics/stotram/lord-ganesha/rinamukti-ganesha-stotram

115%

[विभजत](https://wa.me/?text=%E0%A4%8B%E0%A4%A3%E0%A4%AE%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%BF%20%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%20%E0%A4%97%E0%A4%A3%E0%A5%87%E0%A4%B6%20%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fsa%2Flyrics%2Fstotram%2Flord-ganesha%2Frinamukti-ganesha-stotram)

ॐ

१

ॐ अस्य श्रीऋणविमोचन

महागणपति-स्तोत्रमन्त्रस्य

शुक्राचार्य ऋषिः ऋणविमोचन

महागणपतिर्देवता

अनुष्टुप् छन्दः ऋणविमोचन

महागणपतिप्रीत्यर्थे जपे विनियोगः।

२

ॐ स्मरामि देवदेवेशं

वक्रतुण्डं महाबलम्।

षडक्षरं कृपासिन्धुं

नमामि ऋणमुक्तये॥1॥

३

महागणपतिं वन्दे

महासेतुं महाबलम्।

एकमेवाद्वितीयं तु

नमामि ऋणमुक्तये॥2॥

४

एकाक्षरं त्वेकदन्तमेकं

ब्रह्म सनातनम्।

महाविघ्नहरं देवं

नमामि ऋणमुक्तये॥3॥

५

शुक्लाम्बरं शुक्लवर्णं

शुक्लगन्धानुलेपनम्।

सर्वशुक्लमयं देवं

नमामि ऋणमुक्तये॥4॥

६

रक्ताम्बरं रक्तवर्णं

रक्तगन्धानुलेपनम्।

रक्तपुष्पैः पूज्यमानं

नमामि ऋणमुक्तये॥5॥

७

कृष्णाम्बरं कृष्णवर्णं

कृष्णगन्धानुलेपनम्।

कृष्णयज्ञोपवीतं च

नमामि ऋणमुक्तये॥6॥

८

पीताम्बरं पीतवर्ण

पीतगन्धानुलेपनम्।

पीतपुष्पैः पूज्यमानं

नमामि ऋणमुक्तये॥7॥

९

सर्वात्मकं सर्ववर्णं

सर्वगन्धानुलेपनम्।

सर्वपुष्पैः पूज्यमानं

नमामि ऋणमुक्तये॥8॥

१०

एतद् ऋणहरं स्तोत्रं

त्रिसन्ध्यं यः पठेन्नरः।

षण्मासाभ्यन्तरे तस्य

ऋणच्छेदो न संशयः॥9॥

११

सहस्रदशकं कृत्वा

ऋणमुक्तो धनी भवेत्॥
