# श्री भैरव कवचम् – गीतम्

> श्री भैरव कवचम्: भगवान भैरवसमर्पितम्, “ॐ सहस्त्रारे महाचक्रे” इत्यारभ्य। सम्पूर्णं पाठ्यं स्वभाषायां पठत।

Source: https://www.hinducalendar.today/sa/lyrics/kavacham/gods/lord-bhairava/bhairava-kavacham

115%

[विभजत](https://wa.me/?text=%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%20%E0%A4%AD%E0%A5%88%E0%A4%B0%E0%A4%B5%20%E0%A4%95%E0%A4%B5%E0%A4%9A%E0%A4%AE%E0%A5%8D%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fsa%2Flyrics%2Fkavacham%2Fgods%2Flord-bhairava%2Fbhairava-kavacham)

ॐ

१

ॐ सहस्त्रारे महाचक्रे

कर्पूरधवले गुरुः।

पातु मां बटुको देवो

भैरवः सर्वकर्मसु॥1॥

२

पूर्वस्यामसिताङ्गो मां

दिशि रक्षतु सर्वदा।

आग्नेयां च रुरुः पातु

दक्षिणे चण्ड भैरवः॥2॥

३

नैॠत्यां क्रोधनः पातु

उन्मत्तः पातु पश्चिमे।

वायव्यां मां कपाली च

नित्यं पायात् सुरेश्वरः॥3॥

४

भीषणो भैरवः पातु

उत्तरास्यां तु सर्वदा।

संहार भैरवः

पायादीशान्यां च महेश्वरः॥4॥

५

ऊर्ध्वं पातु विधाता च

पाताले नन्दको विभुः।

सद्योजातस्तु मां पायात्

सर्वतो देवसेवितः॥5॥

६

रामदेवो वनान्ते च

वने घोरस्तथावतु।

जले तत्पुरुषः पातु

स्थले ईशान एव च॥6॥

७

डाकिनी पुत्रकः पातु

पुत्रान् में सर्वतः प्रभुः।

हाकिनी पुत्रकः पातु

दारास्तु लाकिनी सुतः॥7॥

८

पातु शाकिनिका पुत्रः

सैन्यं वै कालभैरवः।

मालिनी पुत्रकः पातु

पशूनश्वान् गजास्तथा॥8॥

९

महाकालोऽवतु क्षेत्रं

श्रियं मे सर्वतो गिरा।

वाद्यं वाद्यप्रियः पातु

भैरवो नित्यसम्पदा॥9॥
