# श्री विष्णुनामाष्टकम् – गीतम्

> श्री विष्णुनामाष्टकम्: भगवान विष्णुसमर्पितम्, “अच्युतं केशवं विष्णुं” इत्यारभ्य। सम्पूर्णं पाठ्यं स्वभाषायां पठत।

Source: https://www.hinducalendar.today/sa/lyrics/ashtakam/gods/lord-vishnu/shri-vishnu-namashtakam

115%

[विभजत](https://wa.me/?text=%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%20%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%95%E0%A4%AE%E0%A5%8D%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fsa%2Flyrics%2Fashtakam%2Fgods%2Flord-vishnu%2Fshri-vishnu-namashtakam)

ॐ

१

अच्युतं केशवं विष्णुं

हरिं सत्यं जनार्दनम्।

हंसं नारायणं

चैवमेतन्नामाष्टकं पठेत्॥1॥

२

त्रिसन्ध्यं यः पठेन्नित्यं

दारिद्र्यं तस्य नश्यति।

शत्रुसैन्यं क्षयं याति

दुःस्वप्नः सुखदो भवेत्॥2॥

३

गङ्गायां मरणं चैव

दृढा भक्तिस्तु केशवे।

ब्रह्मविद्याप्रबोधश्च

तस्मान्नित्यं पठेन्नरः॥3॥
