# श्रीरामप्रेमाष्टकम् – गीतम्

> श्रीरामप्रेमाष्टकम्: भगवान रामसमर्पितम्, “श्यामाम्बुदाभमरविन्दविशालनेत्रं” इत्यारभ्य। सम्पूर्णं पाठ्यं स्वभाषायां पठत।

Source: https://www.hinducalendar.today/sa/lyrics/ashtakam/gods/lord-rama/shri-rama-prema-ashtakam

115%

[विभजत](https://wa.me/?text=%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%AE%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%95%E0%A4%AE%E0%A5%8D%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fsa%2Flyrics%2Fashtakam%2Fgods%2Flord-rama%2Fshri-rama-prema-ashtakam)

ॐ

१

श्यामाम्बुदाभमरविन्दविशालनेत्रं

बन्धूकपुष्पसदृशाधरपाणिपादम्।

सीतासहायमुदितं धृतचापबाणं

रामं नमामि शिरसा रमणीयवेषम्॥1॥

२

पटुजलधरधीरध्वानमादाय चापं

पवनदमनमेकं बाणमाकृष्य तूणात्।

अभयवचनदायी सानुजः सर्वतो मे

रणहतदनुजेन्द्रो रामचन्द्रः सहायः॥2॥

३

दशरथकुलदीपोऽमेयबाहुप्रतापो

दशवदनसकोपः क्षालिताशेषपापः।

कृतसुररिपुतापो नन्दितानेकभूपो

विगततिमिरपङ्को रामचन्द्रः सहायः॥3॥

४

कुवलयदलनीलः कामितार्थप्रदो मे

कृतमुनिजनरक्ष रक्षसामे कहन्ता।

अपहृतदुरितोऽसौ नाममात्रेण पुंसामखिल-

सुरनृपेन्द्रो रामचन्द्रः सहायः॥4॥

५

असुरकुलकृशानुर्मानसाम्भोजभानुः

सुरनरनिकराणामग्रणीर्मे रघूणाम्।

अगणितगुणसीमा नीलमेघौघधामा

शमदमितमुनीन्द्रो रामचन्द्रः सहायः॥5॥

६

कुशिकतनययागं रक्षिता लक्ष्मणाढ्यः

पवनशरनिकायक्षिप्तमारीचमायः।

विदलितहरचापो मेदिनीनन्दनाया

नयनकुमुदचन्द्रो रामचन्द्रः सहायः॥6॥

७

पवनतनयहस्तन्यस्तपादाम्बुजात्मा

कलशभववचोभिः प्राप्तमाहेन्द्रधन्वा।

अपरिमितशरौघैः पूर्णतूणीरधीरो

लघुनिहतकपीन्द्रो रामचन्द्रः सहायः॥7॥

८

कनकविमलकान्त्या सीतयालिङ्गिताङ्गो

मुनिमनुजवरेण्यः सर्ववागीशवन्द्यः।

स्वजननिकरबन्धुर्लीलया बद्धसेतुः

सुरमनुजकपीन्द्रो रामचन्द्रः सहायः॥8॥

९

यामुनाचार्यकृतं दिव्यं रामाष्टकमिदं शुभम्।

यः पठेत् प्रयतो भूत्वा स श्रीरामान्तिकं व्रजेत्॥9॥
