# गोपाल अष्टोत्तर शतनाम स्तोत्रम् – गीतम्

> गोपाल अष्टोत्तर शतनाम स्तोत्रम्: भगवान कृष्णसमर्पितम्, “ॐ गोपालो गोपतिर्गोप्ता गोविन्दो गोकुलप्रियः” इत्यारभ्य। सम्पूर्णं पाठ्यं स्वभाषायां पठत।

Source: https://www.hinducalendar.today/sa/deities-namavali/gods/lord-krishna/stotram/gopala-ashtottara-shatanama-stotram

115%

[विभजत](https://wa.me/?text=%E0%A4%97%E0%A5%8B%E0%A4%AA%E0%A4%BE%E0%A4%B2%20%E0%A4%85%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%B0%20%E0%A4%B6%E0%A4%A4%E0%A4%A8%E0%A4%BE%E0%A4%AE%20%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fsa%2Fdeities-namavali%2Fgods%2Flord-krishna%2Fstotram%2Fgopala-ashtottara-shatanama-stotram)

ॐ

ॐ गोपालो गोपतिर्गोप्ता गोविन्दो गोकुलप्रियः।

गम्भीरो गगनो गोपीप्राणभृत् प्राणधारकः॥1॥

पतितानन्दनो नन्दी नन्दीशः कंससूदनः।

नारायणो नरत्राता नरकार्णवतारकः॥2॥

नवनीतप्रियो नेता नवीनघनसुन्दरः।

नवबालकवात्सल्यो ललितानन्दतत्परः॥3॥

पुरुषार्थप्रदः प्रेमप्रवीणः परमाकृतिः।

करुणः करुणानाथः कैवल्यसुखदायकः॥4॥

कदम्बकुसुमावेशी कदम्बवनमन्दिरः।

कादम्बीविमदामोदघूर्णलोचनपङ्कजः॥5॥

कामी कान्तकलानन्दी कान्तः कामनिधिः कविः।

कौमोदकी गदापाणिः कवीन्द्रो गतिमान् हरः॥6॥

कमलेशः कलानाथः कैवल्यः सुखसागरः।

केशवः केशिहा केशः कलिकल्मषनाशनः॥7॥

कृपालुः करुणासेवी कृपोन्मीलितलोचनः।

स्वच्छन्दः सुन्दरः सुन्दः सुरवृन्दनिषेवितः॥8॥

सर्वज्ञः सर्वदो दाता सर्वपापविनाशनः।

सर्वाह्लादकरः सर्वः सर्ववेदविदां प्रभुः॥9॥

वेदान्तवेद्यो वेदात्मा वेदप्राणकरो विभुः।

विश्वात्मा विश्वविद्विश्वप्राणदो विश्ववन्दितः॥10॥

विश्वेशः शमनस्त्राता विश्वेश्वरसुखप्रदः।

विश्वदो विश्वहारी च पूरकः करुणानिधिः॥11॥

धनेशो धनदो धन्वी धीरो धीरजनप्रियः।

धरासुखप्रदो धाता दुर्धरान्तकरो धरः॥12॥

रमानाथो रमानन्दो रसज्ञो हृदयास्पदः।

रसिको रासदो रासी रासानन्दकरो रसः॥13॥

राधिकाऽऽराधितो राधाप्राणेशः प्रेमसागर।

नाम्नां शतं समासेन तव स्नेहात्प्रकाशितम॥14॥
