# याज्ञवल्क्य कृत सरस्वती स्तोत्रम् – बोल

> याज्ञवल्क्य कृत सरस्वती स्तोत्रम्: सरस्वती माता यांना समर्पित, “कृपां कुरु जगन्मातर्मामेवं” ने सुरुवात. संपूर्ण पाठ तुमच्या भाषेत वाचा.

Source: https://www.hinducalendar.today/mr/lyrics/stotram/saraswati-stotram/saraswati-stotram-yajnavalkya

115%

[शेअर करा](https://wa.me/?text=%E0%A4%AF%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%B5%E0%A4%B2%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%AF%20%E0%A4%95%E0%A5%83%E0%A4%A4%20%E0%A4%B8%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A5%80%20%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fmr%2Flyrics%2Fstotram%2Fsaraswati-stotram%2Fsaraswati-stotram-yajnavalkya)

ॐ

१

कृपां कुरु जगन्मातर्मामेवं

हततेजसम्।

गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं

च दुःखितम्॥1॥

२

ज्ञानं देहि स्मृतिं देहि

विद्यां देहि देवते।

प्रतिष्ठां कवितां देहि

शाक्तं शिष्यप्रबोधिकाम्॥2॥

३

ग्रन्थनिर्मितिशक्तिं च

सच्छिष्यं सुप्रतिष्ठितम्।

प्रतिभां सत्सभायां च

विचारक्षमतां शुभाम्॥3॥

४

लुप्तां सर्वां दैववशान्नवं

कुरु पुनः पुनः।

यथाऽङ्कुरं जनयति

भगवान्योगमायया॥4॥

५

ब्रह्मस्वरूपा परमा

ज्योतिरूपा सनातनी।

सर्वविद्याधिदेवी या

तस्यै वाण्यै नमो नमः॥5॥

६

यया विना जगत्सर्वं

शश्वज्जीवन्मृतं सदा।

ज्ञानाधिदेवी या तस्यै

सरस्वत्यै नमो नमः॥6॥

७

यया विना जगत्सर्वं

मूकमुन्मत्तवत्सदा।

वागधिष्ठातृदेवी या

तस्यै वाण्यै नमो नमः॥7॥

८

हिमचन्दनकुन्देन्दु

कुमुदाम्भोजसंनिभा।

वर्णाधिदेवी या

तस्यै चाक्षरायै नमो नमः॥8॥

९

विसर्ग बिन्दुमात्राणां

यदधिष्ठानमेव च।

इत्थं त्वं गीयसे

सद्भिर्भारत्यै ते नमो नमः॥9॥

१०

यया विनाऽत्र संख्याकृत्संख्यां

कर्तुं न शक्नुते।

काल संख्यास्वरूपा या

तस्यै देव्यै नमो नमः॥10॥

११

व्याख्यास्वरूपा या देवी

व्याख्याधिष्ठातृदेवता।

भ्रमसिद्धान्तरूपा या

तस्यै देव्यै नमो नमः॥11॥

१२

स्मृतिशक्तिर्ज्ञानशक्ति

र्बुद्धिशक्तिस्वरूपिणी।

प्रतिभाकल्पनाशक्तिर्या च

तस्यै नमो नमः॥12॥

१३

सनत्कुमारो ब्रह्माणं ज्ञानं

पप्रच्छ यत्र वै।

बभूव जडवत्सोऽपि

सिद्धान्तं कर्तुमक्षमः॥13॥

१४

तदाऽऽजगाम भगवानात्मा

श्रीकृष्ण ईश्वरः।

उवाच स च तं स्तौहि

वाणीमिति प्रजापते॥14॥

१५

स च तुष्टाव तां ब्रह्मा

चाऽऽज्ञया परमात्मनः।

चकार तत्प्रसादेन

तदा सिद्धान्तमुत्तमम्॥15॥

१६

यदाप्यनन्तं पप्रच्छ

ज्ञानमेकं वसुन्धरा।

बभूव मूकवत्सोऽपि

सिद्धान्तं कर्तुमक्षमः॥16॥

१७

तदा त्वां च स तुष्टाव

सन्त्रस्तः कश्यपाज्ञया।

ततश्चकार सिद्धान्तं

निर्मलं भ्रमभञ्जनम्॥17॥

१८

व्यासः पुराणसूत्रं च

पप्रच्छ वाल्मिकिं यदा।

मौनीभूतः स सस्मार

त्वामेव जगदम्बिकाम्॥18॥

१९

तदा चकार सिद्धान्तं

त्वद्वरेण मुनीश्वरः।

स प्राप निर्मलं ज्ञानं

प्रमादध्वंसकारणम्॥19॥

२०

पुराण सूत्रं श्रुत्वा स

व्यासः कृष्णकलोद्भवः।

त्वां सिषेवे च दध्यौ तं

शतवर्षं च पुष्क्करे॥20॥

२१

तदा त्वत्तो वरं प्राप्य

स कवीन्द्रो बभूव ह।

तदा वेदविभागं च

पुराणानि चकार ह॥21॥

२२

यदा महेन्द्रे पप्रच्छ

तत्त्वज्ञानं शिवा शिवम्।

क्षणं त्वामेव सञ्चिन्त्य

तस्यै ज्ञानं दधौ विभुः॥22॥

२३

पप्रच्छ शब्दशास्त्रं च

महेन्द्रस्च बृहस्पतिम्।

दिव्यं वर्षसहस्रं च

स त्वां दध्यौ च पुष्करे॥23॥

२४

तदा त्वत्तो वरं प्राप्य

दिव्यं वर्षसहस्रकम्।

उवाच शब्दशास्त्रं च

तदर्थं च सुरेश्वरम्॥24॥

२५

अध्यापिताश्च यैः शिष्याः

यैरधीतं मुनीश्वरैः।

ते च त्वां परिसञ्चिन्त्य

प्रवर्तन्ते सुरेश्वरि॥25॥

२६

त्वं संस्तुता पूजिता

च मुनीन्द्रमनुमानवैः।

दैत्यैश्च सुरैश्चापि

ब्रह्मविष्णुशिवादिभिः॥26॥

२७

जडीभूतः सहस्रास्यः

पञ्चवक्त्रश्चतुर्मुखः।

यां स्तोतुं किमहं स्तौमि

तामेकास्येन मानवः॥27॥

२८

इत्युक्त्वा याज्ञवल्क्यश्च

भक्तिनम्रात्मकन्धरः।

प्रणनाम निराहारो

रुरोद च मुहुर्मुहुः॥28॥

२९

तदा ज्योतिः स्वरूपा सा

तेनाऽदृष्टाऽप्युवाच तम्।

सुकवीन्द्रो भवेत्युक्त्वा

वैकुण्ठं च जगाम ह॥29॥

३०

महामूर्खश्च दुर्मेधा

वर्षमेकं च यः पठेत्।

स पण्डितश्च मेधावी

सुकविश्च भवेद्ध्रुवम्॥30॥
