# श्रीविश्वनाथाष्टकम् – बोल

> श्रीविश्वनाथाष्टकम्: भगवान शिव यांना समर्पित, “गङ्गातरङ्गरमणीयजटाकलापं” ने सुरुवात. संपूर्ण पाठ तुमच्या भाषेत वाचा.

Source: https://www.hinducalendar.today/mr/lyrics/ashtakam/gods/lord-shiva/shri-vishvanath-ashtakam

115%

[शेअर करा](https://wa.me/?text=%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%A8%E0%A4%BE%E0%A4%A5%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%95%E0%A4%AE%E0%A5%8D%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fmr%2Flyrics%2Fashtakam%2Fgods%2Flord-shiva%2Fshri-vishvanath-ashtakam)

ॐ

१

गङ्गातरङ्गरमणीयजटाकलापं

गौरीनिरन्तरविभूषितवामभागम्

नारायणप्रियमनङ्गमदापहारं

वाराणसीपुरपतिं भज विश्वनाथम्॥1॥

२

वाचामगोचरमनेकगुणस्वरूपं

वागीशविष्णुसुरसेवितपादपीठम्।

वामेन विग्रहवरेण कलत्रवन्तं

वाराणसीपुरपतिं भज विश्वनाथम्॥2॥

३

भूताधिपं भुजगभूषणभूषिताङ्गं

व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम्।

पाशाङ्कुशाभयवरप्रदशूलपाणिं

वाराणसीपुरपतिं भज विश्वनाथम्॥3॥

४

शीतांशुशोभितकिरीटविराजमानं

भालेक्षणानलविशोषितपञ्चबाणम्।

नागाधिपारचितभासुरकर्णपूरं

वाराणसीपुरपतिं भज विश्वनाथम्॥4॥

५

पञ्चाननं दुरितमत्तमतङ्गजानां

नागान्तकं दनुजपुङ्गवपन्नगानाम्।

दावानलं मरणशोकजराटवीनां

वाराणसीपुरपतिं भज विश्वनाथम्॥5॥

६

तेजोमयं सगुणनिर्गुणमद्वितीय-

मानन्दकन्दमपराजितमप्रमेयम्।

नागात्मकं सकलनिष्कलमात्मरूपं

वाराणसीपुरपतिं भज विश्वनाथम्॥6॥

७

रागादिदोषरहितं स्वजनानुरागं

वैराग्यशान्तिनिलयं गिरिजासहायम्

माधुर्यधैर्यसुभगं गरलाभिरामं

वाराणसीपुरपतिं भज विश्वनाथम्॥7॥

८

आशां विहाय परिहृत्य परस्य निन्दां

पापे रतिं च सुनिवार्य मनः समाधौ।

आदाय हृत्कमलमध्यगतं परेशं

वाराणसीपुरपतिं भज विश्वनाथम्॥8॥

९

वाराणसीपुरपतेः स्तवनं शिवस्य

व्याख्यातमष्टकमिदं पठते मनुष्यः।

विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं

सम्प्राप्य देहविलये लभते च मोक्षम्॥9॥

१०

विश्वनाथाष्टकमिदं यः

पठेच्छिवसन्निधौ।

शिवलोकमवाप्नोति

शिवेन सह मोदते॥10॥
