# श्रीरामाष्टकम् – बोल

> श्रीरामाष्टकम्: भगवान राम यांना समर्पित, “कृतार्तदेववन्दनं” ने सुरुवात. संपूर्ण पाठ तुमच्या भाषेत वाचा.

Source: https://www.hinducalendar.today/mr/lyrics/ashtakam/gods/lord-rama/shri-ramashtakam

115%

[शेअर करा](https://wa.me/?text=%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%95%E0%A4%AE%E0%A5%8D%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fmr%2Flyrics%2Fashtakam%2Fgods%2Flord-rama%2Fshri-ramashtakam)

ॐ

१

कृतार्तदेववन्दनं

दिनेशवंशनन्दनम्।

सुशोभिभालचन्दनं

नमामि राममीश्वरम्॥1॥

२

मुनीन्द्रयज्ञकारकं

शिलाविपत्तिहारकम्।

महाधनुर्विदारकं

नमामि राममीश्वरम्॥2॥

३

स्वतातवाक्यकारिणं

तपोवने विहारिणम्।

करे सुचापधारिणं

नमामि राममीश्वरम्॥3॥

४

कुरङ्गमुक्तसायकं

जटायुमोक्षदायकम्।

प्रविद्धकीशनायकं

नमामि राममीश्वरम्॥4॥

५

प्लवङ्गसङ्गसम्मतिं

निबद्धनिम्नगापतिम्।

दशास्यवंशसङ्क्षतिं

नमामि राममीश्वरम्॥5॥

६

विदीनदेवहर्षणं

कपीप्सितार्थवर्षणम्।

स्वबन्धुशोककर्षणं

नमामि राममीश्वरम्॥6॥

७

गतारिराज्यरक्षणं

प्रजाजनार्तिभक्षणम्।

कृतास्तमोहलक्षणं

नमामि राममीश्वरम्॥7॥

८

हृताखिलाचलाभरं

स्वधामनीतनागरम्।

जगत्तमोदिवाकरं

नमामि राममीश्वरम्॥8॥

९

इदं समाहितात्मना

नरो रघूत्तमाष्टकम्।

पठन्निरन्तरं भयं

भवोद्भवं न विन्दते॥9॥
