# श्रीनन्दकुमाराष्टकम् – बोल

> श्रीनन्दकुमाराष्टकम्: भगवान कृष्ण यांना समर्पित, “सुन्दरगोपालम् उरवनमालं” ने सुरुवात. संपूर्ण पाठ तुमच्या भाषेत वाचा.

Source: https://www.hinducalendar.today/mr/lyrics/ashtakam/gods/lord-krishna/shri-nandakumar-ashtakam

115%

[शेअर करा](https://wa.me/?text=%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A5%81%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%95%E0%A4%AE%E0%A5%8D%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fmr%2Flyrics%2Fashtakam%2Fgods%2Flord-krishna%2Fshri-nandakumar-ashtakam)

ॐ

१

सुन्दरगोपालम् उरवनमालं

नयनविशालं दुःखहरं।

वृन्दावनचन्द्रमानन्दकन्दं

परमानन्दं धरणिधर

वल्लभघनश्यामं पूर्णकामं

अत्यभिरामं प्रीतिकरं।

भज नन्दकुमारं सर्वसुखसारं

तत्त्वविचारं ब्रह्मपरम्॥1॥

२

सुन्दरवारिजवदनं निर्जितमदनं

आनन्दसदनं मुकुटधरं।

गुञ्जाकृतिहारं विपिनविहारं

परमोदारं चीरहर

वल्लभपटपीतं कृतउपवीतं

करनवनीतं विबुधवरं।

भज नन्दकुमारं सर्वसुखसारं

तत्त्वविचारं ब्रह्मपरम्॥2॥

३

शोभितमुखधूलं यमुनाकूलं

निपटअतूलं सुखदतरं।

मुखमण्डितरेणुं चारितधेनुं

वादितवेणुं मधुरसुर

वल्लभमतिविमलं शुभपदकमलं

नखरुचिअमलं तिमिरहरं।

भज नन्दकुमारं सर्वसुखसारं

तत्त्वविचारं ब्रह्मपरम्॥3॥

४

शिरमुकुटसुदेशं कुञ्चितकेशं

नटवरवेशं कामवरं।

मायाकृतमनुजं हलधरअनुजं

प्रतिहतदनुजं भारहर

वल्लभव्रजपालं सुभगसुचालं

हितमनुकालं भाववरं।

भज नन्दकुमारं सर्वसुखसारं

तत्त्वविचारं ब्रह्मपरम्॥4॥

५

इन्दीवरभासं प्रकटसुरासं

कुसुमविकासं वंशिधरं।

हृतमन्मथमानं रूपनिधानं

कृतकलगानं चित्तहर

वल्लभमृदुहासं कुञ्जनिवासं

विविधविलासं केलिकरं।

भज नन्दकुमारं सर्वसुखसारं

तत्त्वविचारं ब्रह्मपरम्॥5॥

६

अतिपरप्रवीणं पालितदीनं

भक्ताधीनं कर्मकरं।

मोहनमतिधीरं फणिबलवीरं

हतपरवीरं तरलतर

वल्लभव्रजरमणं वारिजवदनं

हलधरशमनं शैलधरं।

भज नन्दकुमारं सर्वसुखसारं

तत्त्वविचारं ब्रह्मपरम्॥6॥

७

जलधरद्युतिअङ्गं ललितत्रिभङ्गं

बहुकृतरङ्गं रसिकवरं।

गोकुलपरिवारं मदनाकारं

कुञ्जविहारं गूढतर

वल्लभव्रजचन्द्रं सुभगसुछन्दं

कृतआनन्दं भ्रान्तिहरं।

भज नन्दकुमारं सर्वसुखसारं

तत्त्वविचारं ब्रह्मपरम्॥7॥

८

वन्दितयुगचरणं पावनकरणं

जगदुद्धरणं विमलधरं।

कालियशिरगमनं कृतफणिनमनं

घातितयमनं मृदुलतर

वल्लभदुःखहरणं निर्मलचरणम्

अशरणशरणं मुक्तिकरं।

भज नन्दकुमारं सर्वसुखसारं

तत्त्वविचारं ब्रह्मपरम्॥8॥
