# श्री नचिकेतकृता यमस्तुतिः – बोल

> श्री नचिकेतकृता यमस्तुतिः: भगवान यम को समर्पित, “त्वं धाता च विधाता च श्राद्धे चैव हि दृश्यसे” से आरम्भ। पूरा पाठ अपनी भाषा में पढ़ें।

Source: https://www.hinducalendar.today/hi/lyrics/stotram/yama/yama-stotram

115%

[शेयर करें](https://wa.me/?text=%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%20%E0%A4%A8%E0%A4%9A%E0%A4%BF%E0%A4%95%E0%A5%87%E0%A4%A4%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A4%BE%20%E0%A4%AF%E0%A4%AE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%81%E0%A4%A4%E0%A4%BF%E0%A4%83%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fhi%2Flyrics%2Fstotram%2Fyama%2Fyama-stotram)

ॐ

१

त्वं धाता च विधाता च श्राद्धे चैव हि दृश्यसे।

पितॄणां परमो देवश्चतुष्पाद नमोऽस्तु ते॥1॥

२

कालज्ञश्च कृतज्ञश्च सत्यवादी दृढव्रतः।

प्रेतनाथ महाभाग धर्मराज नमोऽस्तु ते॥2॥

३

कर्म कारयिता चैव भूतभव्यभवत्प्रभो।

पावको मोहनश्चैव सङ्क्षेपो विस्तरस्तथा॥3॥

४

दण्डपाणे विरूपाक्ष पाशहस्त नमोऽस्तु ते।

आदित्यसदृशाकार सर्वजीवहर प्रभो॥4॥

५

कृष्णवर्ण दुराधर्ष तैलरूप नमोऽस्तु ते।

मार्तण्डसदृश श्रीमन्मार्तण्डसदृशद्युतिः॥5॥

६

हव्यकव्यवहस्त्वं हि प्रभविष्णो नमोऽस्तु ते।

पापहन्ता व्रती श्राद्धी नित्ययुक्तो महातपाः॥6॥

७

एकदृग्बहुदृग्भूत्वा कालमृत्यो नमोऽस्तु ते।

क्वचिद्दण्डी क्वचिन्मुण्डी क्वचित्कालो दुरासदः॥7॥

८

क्वचिद्बालः क्वचिद्वृद्धः क्वचिद्रौद्रो नमोऽस्तु ते।

त्वया विराजितो लोकः शासितो धर्महेतुना॥8॥

९

प्रत्यक्ष्यं दृश्यते देव त्वां विना न च सिध्यति।

देवानां परमो देवस्तपसां परमं तपः॥9॥

१०

जपानां परमं जप्यं त्वत्तश्चान्यो न दृश्यते।

ऋषयो वा तथा क्रुद्धा हतबन्धुसुहृज्जनाः॥10॥

११

पतिव्रतास्तु या नार्यो दुःखितास्तपसि स्थिताः।

न त्वं शक्त इह स्थानात्पातनाय कदाचन॥11॥

१२

तस्मात्त्वं सर्वदेवेषु चैको धर्मभृतां वरः।

कृतज्ञः सत्यवादी च सर्वभूतहिते रतः॥12॥
