# श्री कमलापत्यष्टकम् – बोल

> श्री कमलापत्यष्टकम्: भगवान विष्णु को समर्पित, “भुजगतल्पगतं घनसुन्दरं” से आरम्भ। पूरा पाठ अपनी भाषा में पढ़ें।

Source: https://www.hinducalendar.today/hi/lyrics/ashtakam/gods/lord-vishnu/shri-kamalapati-ashtakam

115%

[शेयर करें](https://wa.me/?text=%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%20%E0%A4%95%E0%A4%AE%E0%A4%B2%E0%A4%BE%E0%A4%AA%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%95%E0%A4%AE%E0%A5%8D%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fhi%2Flyrics%2Fashtakam%2Fgods%2Flord-vishnu%2Fshri-kamalapati-ashtakam)

ॐ

१

भुजगतल्पगतं घनसुन्दरं

गरुडवाहनमम्बुजलोचनम्।

नलिनचक्रगदाकरमव्ययं

भजत रे मनुजाः कमलापतिम्॥1॥

२

अलिकुलासितकोमलकुन्तलं

विमलपीतदुकूलमनोहरम्।

जलधिजाङ्कितवामकलेवरं

भजत रे मनुजाः कमलापतिम्॥2॥

३

किमु जपैश्च तपोभिरुताध्वरैरपि

किमुत्तमतीर्थनिषेवणैः।

किमुत शास्त्रकदम्बविलोकनैर्भजत

रे मनुजाः कमलापतिम्॥3॥

४

मनुजदेहमिमं भुवि दुर्लभं

समधिगम्य सुरैरपि वाञ्छितम्।

विषयलम्पटतामपहाय वै

भजत रे मनुजाः कमलापतिम्॥4॥

५

न वनिता न सुतो न सहोदरो न

हि पिता जननी न च बान्धवः।

व्रजति साकमनेन जनेन वै

भजत रे मनुजाः कमलापतिम्॥5॥

६

सकलमेव चलं सचराचरं

जगदिदं सुतरां धनयौवनम्।

समवलोक्य विवेकदृशा द्रुतं

भजत रे मनुजाः कमलापतिम्॥6॥

७

विविधरोगयुतं क्षणभंगुरं

परवशं नवमार्गमलाकुलम्।

परिनिरीक्ष्य शरीरमिदं स्वकं

भजत रे मनुजाः कमलापतिम्॥7॥

८

मुनिवरैरनिशं हृदि भावितं

शिवविरिञ्चिमहेन्द्रनुतं सदा।

मरणजन्मजराभयमोचनं

भजत रे मनुजाः कमलापतिम्॥8॥

९

हरिपदाष्टकमेतदनुत्तमं

परमहंसजनेन समीरितम्।

पठति यस्तु समाहितचेतसा

व्रजति विष्णुपदं स नरो ध्रुवम्॥9॥
