# श्री पशुपत्यष्टकम् – बोल

> श्री पशुपत्यष्टकम्: भगवान शिव को समर्पित, “ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं” से आरम्भ। पूरा पाठ अपनी भाषा में पढ़ें।

Source: https://www.hinducalendar.today/hi/lyrics/ashtakam/gods/lord-shiva/pashupati-ashtakam

115%

[शेयर करें](https://wa.me/?text=%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%20%E0%A4%AA%E0%A4%B6%E0%A5%81%E0%A4%AA%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%95%E0%A4%AE%E0%A5%8D%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fhi%2Flyrics%2Fashtakam%2Fgods%2Flord-shiva%2Fpashupati-ashtakam)

ॐ

१

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं

रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम्।

पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं

विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्॥

२

पशुपतिं द्युपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम्।

प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम्॥1॥

३

न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम्।

अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम्॥2॥

४

मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम्।

प्रमथभूतगणैरपि सेवितं भजत रे मनुजा गिरिजापतिम्॥3॥

५

शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम्।

अभयदं करुणावरुणालयं भजत रे मनुजा गिरिजापतिम्॥4॥

६

नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम्।

चितिरजोधवलीकृतविग्रहं भजत रे मनुजा गिरिजापतिम्॥5॥

७

मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम्।

प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम्॥6॥

८

मदमपास्य चिरं हृदि संस्थितं मरणजन्मजराभयपीडितम्।

जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम्॥7॥

९

हरिविरञ्चिसुराधिपपूजितं यमजनेशधनेशनमस्कृतम्।

त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम्॥8॥

१०

पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपतिसूरिणा ।

पठति संश‍ृणुते मनुजः सदा शिवपुरीं वसते लभते मुदम्॥9॥
