# श्रीरामचन्द्राष्टकम् – बोल

> श्रीरामचन्द्राष्टकम्: भगवान राम को समर्पित, “चिदाकारो धाता” से आरम्भ। पूरा पाठ अपनी भाषा में पढ़ें।

Source: https://www.hinducalendar.today/hi/lyrics/ashtakam/gods/lord-rama/shri-ramachandra-ashtakam

115%

[शेयर करें](https://wa.me/?text=%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%95%E0%A4%AE%E0%A5%8D%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fhi%2Flyrics%2Fashtakam%2Fgods%2Flord-rama%2Fshri-ramachandra-ashtakam)

ॐ

१

चिदाकारो धाता

परमसुखदः पावन-

तनुर्मुनीन्द्रैर्यो-

गीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता।

सदा सेव्यः पूर्णो

जनकतनयाङ्गः सुरगुरु

रमानाथो रामो रमतु

मम चित्ते तु सततम्॥1॥

२

मुकुन्दो गोविन्दो

जनकतनयालालितपदः

पदं प्राप्ता

यस्याधमकुलभवा चापि शबरी।

गिरातीतोऽगम्यो

विमलधिषणैर्वेदवचसा

रमानाथो रामो रमतु

मम चित्ते तु सततम्॥2॥

३

धराधीशोऽधीशः

सुरनरवराणां रघुपतिः

किरीटी केयूरी

कनककपिशः शोभितवपुः।

समासीनः पीठे

रविशतनिभे शान्तमनसो

रमानाथो रामो रमतु

मम चित्ते तु सततम्॥3॥

४

वरेण्यः शारण्यः

कपिपतिसखश्चान्तविधुरो

ललाटे काश्मीरो

रुचिरगतिभङ्गः शशिमुखः।

नराकारो रामो

यतिपतिनुतः संसृतिहरो

रमानाथो रामो रमतु

मम चित्ते तु सततम्।॥4॥

५

विरूपाक्षः कश्यामुपदिशि

यन्नाम शिवदं

सहस्रं यन्नाम्नां पठति

गिरिजा प्रत्युषसि वै।

स्वलोके गायन्तीश्वरविधिमुखा

यस्य चरितं

रमानाथो रामो रमतु

मम चित्ते तु सततम्॥5॥

६

परो धीरोऽधीरोऽसुरकुल-

भवश्चासुरहरः

परात्मा सर्वज्ञो

नरसुरगणैर्गीतसुयशाः।

अहल्याशापघ्नः

शरकरऋजुः कौशिकसखो

रमानाथो रामो रमतु

मम चित्ते तु सततम्॥6॥

७

हृषीकेशः शौरिर्धरणि-

धरशायी मधुरिपु-

रुपेन्द्रोवैकुण्ठो

गजरिपुहरस्तुष्टमनसा।

बलिध्वंसी वीरो

दशरथसुतो नीतिनिपुणो

रमानाथो रामो रमतु

मम चित्ते तु सततम्॥7॥

८

कविः सौमित्रीड्यः

कपटमृगघाती वनचरो

रणश्लाघी दान्तो

धरणिभरहर्ता सुरनुतः।

अमानी मानज्ञो

निखिलजनपूज्यो हृदिशयो

रमानाथो रामो रमतु

मम चित्ते तु सततम्॥8॥

९

इदं रामस्तोत्रं

वरममरदासेन रचितमुषः

काले भक्त्या यदि

पठति यो भावसहितम्।

मनुष्यः स क्षिप्रं

जनिमृतिभयं तापजनकं

परित्यज्य श्रेष्ठं

रघुपतिपदं याति शिवदम्॥9॥
