# अच्युताष्टकम् – बोल

> अच्युताष्टकम्: भगवान कृष्ण को समर्पित, “अच्युतं केशवं रामनारायणं” से आरम्भ। पूरा पाठ अपनी भाषा में पढ़ें।

Source: https://www.hinducalendar.today/hi/lyrics/ashtakam/gods/lord-krishna/achyuta-ashtakam

115%

[शेयर करें](https://wa.me/?text=%E0%A4%85%E0%A4%9A%E0%A5%8D%E0%A4%AF%E0%A5%81%E0%A4%A4%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%95%E0%A4%AE%E0%A5%8D%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fhi%2Flyrics%2Fashtakam%2Fgods%2Flord-krishna%2Fachyuta-ashtakam)

ॐ

१

अच्युतं केशवं रामनारायणं

कृष्णदामोदरं वासुदेवं हरिम्।

श्रीधरं माधवं गोपिकावल्लभं

जानकीनायकं रामचन्द्रं भजे॥1॥

२

अच्युतं केशवं सत्यभामाधवं

माधवं श्रीधरं राधिकाराधितम्।

इन्दिरामन्दिरं चेतसा सुन्दरं

देवकीनन्दनं नन्दजं सन्दधे॥2॥

३

विष्णवे जिष्णवे शङ्खिने चक्रिणे

रूक्मिणीरागिणे जानकीजानये।

वल्लवीवल्लभायार्चितायात्मने

कंसविध्वंसिने वंशिने ते नमः॥3॥

४

कृष्ण गोविन्दहे राम नारायण

श्रीपते वासुदेवाजित श्रीनिधे।

अच्युतानन्त हे माधवाधोक्षज

द्वारकानायक द्रौपदीरक्षक॥4॥

५

राक्षसक्षोभितः सीतया शोभितो

दण्डकारण्यभूपुण्यताकारणः।

लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्य-

सम्पूजितो राघवः पातु माम्॥5॥

६

धेनुकारिष्टकानिष्टकृदद्वेषिहा

केशिहा कंसह्रद्वंशिकावादकः।

पूतनाकोपकः सूरजाखेलनो

बालगोपालकः पातु मां सर्वदा॥6॥

७

विद्युदुद्योतवत्प्रस्फुरद्वाससं

प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम्।

वन्यया मालया शोभितोरःस्थलं

लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे॥7॥

८

कुञ्चितैः कुन्तलैर्भ्राजमानाननं

रत्नमौलिं लसत्कुण्डलं गण्डयोः।

हारकेयूरकं कङ्कणप्रोज्ज्वलं

किङ्किणीमञ्जुलं श्यामलं तं भजे॥8॥

९

अच्युतस्याष्टकं यः पठेदिष्टदं

प्रेमतः प्रत्यहं पूरुषः सस्पृहम्।

वृत्ततः सुन्दरं कर्तृविश्वम्भरस्तस्य

वश्यो हरिर्जायते सत्वरम्॥9॥
