# सिद्धिविनायक अष्टोत्तर शतनाम स्तोत्रम् – बोल

> सिद्धिविनायक अष्टोत्तर शतनाम स्तोत्रम्: भगवान गणेश को समर्पित, “विनायको विघ्नराजो” से आरम्भ। पूरा पाठ अपनी भाषा में पढ़ें।

Source: https://www.hinducalendar.today/hi/deities-namavali/gods/lord-ganesha/stotram/siddhivinayaka-ashtottara-shatanama-stotram

115%

[शेयर करें](https://wa.me/?text=%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%B5%E0%A4%BF%E0%A4%A8%E0%A4%BE%E0%A4%AF%E0%A4%95%20%E0%A4%85%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%B0%20%E0%A4%B6%E0%A4%A4%E0%A4%A8%E0%A4%BE%E0%A4%AE%20%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D%0A%0Ahttps%3A%2F%2Fwww.hinducalendar.today%2Fhi%2Fdeities-namavali%2Fgods%2Flord-ganesha%2Fstotram%2Fsiddhivinayaka-ashtottara-shatanama-stotram)

ॐ

विनायको विघ्नराजो

गौरीपुत्रो गणेश्वरः।

स्कन्दाग्रजोऽव्ययो पूतो

दक्षोऽध्यक्षो द्विजप्रियः॥1॥

अग्निगर्भच्छिदिन्द्रश्रीप्रदो

वाणीबलप्रदः।

सर्वसिद्धिप्रदश्शर्वतनयः

शर्वरीप्रियः॥2॥

सर्वात्मकः सृष्टिकर्ता

देवोऽनेकार्चितश्शिवः।

शुद्धो बुद्धिप्रियश्शान्तो

ब्रह्मचारी गजाननः॥3॥

द्वैमात्रेयो मुनिस्तुत्यो

भक्तविघ्नविनाशनः।

एकदन्तश्चतुर्बाहुश्-

चतुरश्शक्तिसंयुतः॥4॥

लम्बोदरश्शूर्पकर्णो

हरिर्ब्रह्म विदुत्तमः।

कालो ग्रहपतिः कामी

सोमसूर्याग्निलोचनः॥5॥

पाशाङ्कुशधरश्चण्डो

गुणातीतो निरञ्जनः।

अकल्मषस्स्वयं-

सिद्धस्सिद्धार्चितपदाम्बुजः॥6॥

बीजपूरफलासक्तो

वरदश्शाश्वतः कृतिः।

द्विजप्रियो वीतभयो

गदी चक्रीक्षुचापधृत्॥7॥

श्रीदोऽजोत्पलकरः

श्रीपतिः स्तुतिहर्षितः।

कुलाद्रिभेत्ता जटिलः

कलिकल्मषनाशनः॥8॥

चन्द्रचूडामणिः कान्तः

पापहारी समाहितः।

आश्रितश्श्रीकरस्सौम्यो

भक्तवाञ्छितदायकः॥9॥

शान्तः कैवल्यसुखदस्-

सच्चिदानन्दविग्रहः।

ज्ञानी दयायुतो दान्तो

ब्रह्म द्वेषविवर्जितः॥10॥

प्रमत्तदैत्यभयदः

श्रीकण्ट्ःओ विबुधेश्वरः।

रमार्चितोविधिर्-

नागराजयज्ञोपवीतकः॥11॥

स्थूलकण्ठः स्वयङ्कर्ता

सामघोषप्रियः परः।

स्थूलतुण्डोऽग्रणीर्धीरो

वागीशस्सिद्धिदायकः॥12॥

दूर्वाबिल्वप्रियोऽव्यक्त-

मूर्तिरद्भुतमूर्तिमान्।

शैलेन्द्रतनुजोत्सङ्ग-

खेलनोत्सुकमानसः॥13॥

स्वलावण्यसुधासारो

जितमन्मथविग्रहः।

समस्तजगदाधारो

मायी मूषकवाहनः॥14॥

हृष्टस्तुष्टः प्रसन्नात्मा

सर्वसिद्धिप्रदाकः।

अष्टोत्तरशतेनैवं नाम्नां

विघ्नेश्वरं विभु॥15॥

तुष्टाव शङ्करः

पुत्रं त्रिपुरं हन्तुमुत्यतः।

यः पूजयेदनेनैव

भक्त्या सिद्धिविनायकम्॥16॥

दूर्वादलैर्बिल्वपत्रैः

पुष्पैर्वा चन्दनाक्षतैः।

सर्वान्कामानवाप्नोति

सर्वविघ्नैः प्रमुच्यते
